Ganesha Sahasranamam in Sanskrit
Spread the love

The Ganesha Sahasranama is a revered hymn that lists 1,000 names of the Hindu deity Lord Ganesha. It is recited in temples as an integral part of Ganesha devotion. These sacred names celebrate Ganesha’s various attributes and qualities, invoking blessings and removing obstacles. Each name carries profound symbolism, representing aspects like wisdom, auspiciousness, and protection. Devotees chant these names to seek Ganesha’s grace and overcome challenges. The Sahasranama serves as a powerful spiritual tool, fostering devotion and connecting devotees with the divine energy of Lord Ganesha. Here is the Ganesha Sahasranamam in Sanskrit.

Ganesha Sahasranamam in Sanskrit begins:

मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥

ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3 ॥

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ 4 ॥

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5 ॥

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ।
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि ।
हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

अथ करन्यासः
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥

अथ अङ्गन्यासः
छन्दश्छन्दोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ।
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तिसहित इत्यस्त्राय फट् ।
भूर्भुवः स्वरोम् इति दिग्बन्धः ।

अथ ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥

Ganesha Sahasranamam in Sanskrit
Ganesha Sahasranamam in Sanskrit
Photo Source: Ganesha Sahasranamam in Sanskrit
Ganesha Sahasranamam in sanskrit
Photo source:
Ganesha Sahasranamam in Sanskrit
Ganesha Sahasranamam in Sanskrit

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101 ॥

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ 102 ॥

मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103 ॥

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104 ॥

रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105 ॥

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106 ॥

वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107 ॥

वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108 ॥

शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ 109 ॥

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110 ॥

सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ।
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ 111 ॥

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ 112 ॥

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ 113 ॥

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ 114 ॥

धर्मप्रदो‌உर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115 ॥

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116 ॥

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 117 ॥

पराभिचारशमनो दुःखहा बन्धमोक्षदः ।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118 ॥

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119 ॥

राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120 ॥

राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ 121 ॥

भूरापो‌உग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122 ॥

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123 ॥

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124 ॥

वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ 125 ॥

वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ।
शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥ 126 ॥

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127 ॥

बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ॥

ज्ञानं विज्ञानमानन्दो बोधः संवित्समो‌உसमः ।
एक एकाक्षराधार एकाक्षरपरायणः ॥ 129 ॥

एकाग्रधीरेकवीर एको‌உनेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130 ॥

द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131 ॥

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132 ॥

चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ॥

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ 134 ॥

पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ 135 ॥

पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ 136 ॥

षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ 137 ॥

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ 138 ॥

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ 139 ॥

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ 140 ॥

सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141 ॥

सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142 ॥

अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ।
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143 ॥

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्यो‌உष्टवसुवन्द्यो‌உष्टमूर्तिभृत् ॥ 144 ॥

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145 ॥

नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।
नवनाथमहानाथो नवनागविभूषितः ॥ 146 ॥

नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ 147 ॥

दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ 148 ॥

दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149 ॥

द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ।
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150 ॥

Ganesha Sahasranamam in Sanskrit
Ganesha Sahasranamam in Sanskrit

चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151 ॥

सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ 152 ॥

षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ 153 ॥

कलासप्तदशी सप्तदशसप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154 ॥

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155 ॥

अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ।
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ 156 ॥

चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157 ॥

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥ 158 ॥

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ 159 ॥

चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ।
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ 160 ॥

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ 161 ॥

चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ।
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ 162 ॥

शतानीकः शतमखः शतधारावरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164 ॥

दशसाहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165 ॥

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166 ॥

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ 167 ॥

शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ 168 ॥

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ 169 ॥

अनन्तनामानन्तश्रीरनन्तो‌உनन्तसौख्यदः ।
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ 170 ॥

इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171 ॥

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172 ॥

मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ।
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ 173 ॥

जगत्संवननं विश्वसंवादो वेदपाटवम् ।
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ 174 ॥

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175 ॥

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176 ॥

राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ।
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177 ॥

धर्मार्थकाममोक्षाणामनायासेन साधनम् ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178 ॥

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179 ॥

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180 ॥

परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।
सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् ॥ 181 ॥

सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182 ॥

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183 ॥

क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ।
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184 ॥

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ 185 ॥

वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ।
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186 ॥

इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187 ॥

प्राप्यते‌உस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।
सहस्रनाममन्त्रो‌உयं जपितव्यः शुभाप्तये ॥ 188 ॥

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189 ॥

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ 190 ॥

कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ 191 ॥

गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ 192 ॥

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193 ॥

जातिस्मरो धर्मपरः सार्वभौमो‌உभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194 ॥

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।
निरन्तरे निराबाधे परमानन्दसञ्ज्ञिते ॥ 195 ॥

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ 196 ॥

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये‌एन्नरः ।
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ 197 ॥

तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ।
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198 ॥

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199 ॥

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200 ॥

भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ।
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201 ॥

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ।
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202 ॥

स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203 ॥

लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ 204 ॥

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ 205 ॥

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206 ॥

अकिञ्चनोप्येकचित्तो नियतो नियतासनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207 ॥

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208 ॥

आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त –
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209 ॥

गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210 ॥

अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ 211 ॥

काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212 ॥

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजो‌உस्य तथ्यमिष्टार्थसिद्धये ॥ 213 ॥

यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214 ॥

नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलदयैकसिद्धये
नमो नमः करिकलभाननाय ते ॥ 215 ॥

किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना ॥ 216 ॥

॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ॥

So here, the Ganesha Sahasranamam in Sanskrit completes

Please Share this “Ganesha Sahasranamam in Sanskrit” with your family and friends. And if any correction is required in this, please write to us.

Next Sahasranamam: Sri Radha Sahasranamam
Previous Sahasranamam: Sri Lakshmi Narasimha Sahasranamam

Additionally, you might also like  Vishnu SahasranamamLakshmi Sahasranamam, and Shiva Sahasranamam. Please go through the Sahasranamam section in English to learn the Sahasranamam of Gods in English.

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *